पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यक्षप्रचार [३अधि १६ अध्या 1134 तथा विक्षेपसक्षेपविक्रय प्रयोगकालान् । यच्च पण्यं प्रचुरं स्यात्तदेकीवृत्यामारोपयेत् । प्राप्तेऽर्धे वाs- र्धान्तरं कारयेन् । स्वभूमिजानां राजपण्यानामेकमुख व्यवहार स्थापयेत् । पर- भूमिजानामनेकमुखम् । उभय च प्रजानामनुग्रहेण विक्रापयेत् । स्थूलमपि च लाभ प्रजानामौपघातिक वारयेत् । अजस्रपण्यानां कालोवरोध सङ्कुलदोष वा नोत्पादयेत् । बहुमुख वा राजपण्यं वैदेहकाः कृतार्धं विक्रीणीरन् ! छेदा- नुरूपं च वैधरणं दध्युः । षोडशभागो मानव्याजी । विंशतिभागस्तुलाभानम् । गण्य- पण्यानामेकादशभागः। परभूमिजं पण्यमनुग्रहेणावाहयेत् नाविकसार्थवाहेभ्यश्च प रिहारमायतिक्षम दद्यात् । अनभियोगश्चार्थेष्वागन्तूनामन्यत्र सभ्योपकारिभ्यः ।। पण्याधिष्ठातारः पण्यमूल्यमेकमुखं काष्ठं द्रोण्यामेकच्छिद्रापि धानायां निदध्युः । अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः " इदं विक्रीतमिदं शेषमिति " । तुलामानभाण्डकं चार्पयेयुः ॥ 1197 इति स्वविषये व्याख्यातम् । ____1 बहेयेन, योग चा. कोष्ट विं, भाण्ड,