पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
काव्यमाला ।

वयन्काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति । नह्य​त्रौजसो वैपुल्येन प्रतिभानमस्ति । 'विनिविष्टैर्नूपुरैर्नर्त-' इत्यत्र सन्नप्योजसो लवो न मत्कारी । नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः । अंशान्तरे तु माधुर्यमेव ।

संयोगपरहसस्वप्राचुर्यरूपं गाढत्वमोजः।

यथा-
'साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः ।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥'

यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते ।

अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ।

यथा 'नितराम्' इत्यादि प्रागुदाहृते ।

बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः ।

अनयोरव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसादादस्य भेदकः । तत्र हि तयोर्व्युत्क्रमेण वृत्तेः ।

यथा-
'स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥'

अत्रारोहः प्रथमेऽर्धे । तृतीयचरणे त्ववरोहः। गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्व​पि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे तु सोऽपि । एते दश शब्दगुणाः ।


टीकाकाराणाम् । अनुकूलत्वाभावमेवाह-नहीति । अत्र स्वचरणेति पद्ये । वैपुल्येन सर्वोशेन । लवो लेशः । अत एव न चमत्कारित्वम् । तत्रौजसो लवांशे । साहमिति । हे भूमीभूषण । आभोगो विस्तारः। अनयोर्गाढत्वशिथिलत्वयोः । प्रसादात्समाधेर्भेदमाह- क्रम एवेति । तयोर्गाढत्वशिथिलत्वयोः क्रम एव हीत्यर्थः । वृत्तेः प्रवृत्तेः । स्वर्गेति । यस्यास्यसरोजं तेषां लास्यगृहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः । द्वितीयेऽर्धे