पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
रसगङ्गाधरः ।

यथा-
'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥'

अपरुषुवर्णघटितत्वं सुकुमारता ।

यथा-
'स्वेदाम्बुसान्द्रकणशालिकपोलपालि-
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥"

अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि ।

झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ।

यथा 'नितराम्' इत्यादौ ।

कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ।

यथा-
'प्रमोदभरतुन्दिलप्रमथदत्ततालावली-
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि ।
ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो
हठोद्धुतजटोद्भटो गतपटो नटो नृत्यति ॥'

'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याच​क्षते । उदाहरन्ति च 'स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झटिति रणितमासीत्' इत्यादि । तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्तर्भा-


ग्राह्यः । स्पष्टं चेदमत्रैवाग्रे । पृथक्पदत्वम् । पदानि भिन्नान्यपेक्षितानि, न तु श्लेषवत् । विचारेति । अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेत्यर्थः । अङ्गकानामित्यत्रानुकम्पायां कन् । दृष्टेति शेषः । नायिकां प्रति नायकोक्तिः । स्वेदेति । नायकोक्तिः । श्वणकुण्डलं कर्णताटङ्कः । अत्र स्मृत्युपष्टब्धशृङ्गारः पूर्वार्धे । अपरुषवर्णघटितत्वरूपा सुकुमारतेति शेषः । अपिनास्या अपि समुच्चयः । झगिति द्राक् । प्रतीयमानत्वमन्वयविशेषणम् । आकाङ्क्षादिसकलकारणसामग्रीसत्त्वादिति भावः । प्रमथा गणाः । डमरुडिण्डिमेति । डमरुढंकृति तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्थे । तेषां