अथर्ववेदः/काण्डं १९/सूक्तम् ०१
दिखावट
← काण्डं १९ | अथर्ववेदः - काण्डं १९ सूक्तं १९.१ ब्रह्मा। |
सूक्तं १९.०२ → |
दे. यज्ञः, चन्द्रमाश्च। १-२ पथ्याबृहती, ३ पङ्क्तिः। |
संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।
यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।
यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥