पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

114 अध्यक्षप्रचार [२ अधि. २३ अध्या. 1408 श्लक्ष्णस्थूलमध्यता' च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बहल्पता च सूत्रप्रमाणं ज्ञात्वा तैलामलकोद्वर्तनैरेता अनुगृ. ह्णीयात् । तिथिषु प्रतिपादनमानैश्च कर्म कारयितव्या । सूत्रह्रासे वेतनह्रासः द्रव्यसारात् । कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारूभिश्च कर्म का- रयेत्, प्रतिसंसर्ग च गच्छेत् । क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जा- नो गन्धमाल्यदानैरन्यैश्चौपग्राहिकैराराधयेत् । वस्त्रास्तरणप्रावरणविकल्पानुत्थापयेत् । कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभि कारयेत् । 1419 याश्चानिष्कासिन्यः प्रोषितविधवा न्यङ्गा कन्यका वाऽऽत्मानं बिभृयुस्ता. स्वदासीभिरनुसार्य सोपग्रहं कर्म कारयितव्याः। स्वयमागच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतन- विनिमयं कारयेत् । सूत्रपरीक्षार्थमात्रः प्रदीपः। स्त्रिया मुखसन्दर्शनेऽन्यकार्यसंभाषायां वा पूर्वस्साहसदण्डः। वेतनकालातिपातने मध्यमः। अकृतकर्मवेतनप्रदाने च। 1 मध्यस्थता स्वदासीभिरनुसाध्य.