पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यक्षप्रचार [२ अधि, २४ अध्या . . . ..... 1443 पानामर्धत्रयोदशाश्मकानां त्रयोविंशतिरवन्तीनाममितमपरान्ता- ना हैमन्यानां च कुल्यावापानां च कालतः । वर्षात्रिभाग पूर्वपश्चिममासयो, द्वौ विभागो मध्यमयोः सुषमा रूपम् । तस्योपलब्धिबृहस्पतेस्स्थानगमनगर्भाधानेभ्यः शुक्रोदयास्त मयचारेभ्यः सूर्यस्य प्रकृतिकृताच । सूर्याद्वीजसिद्धिः । बृहस्पतेस्त्रस्यानां स्तम्बकरिता । शुक्रादृष्टिरिति । त्रयम्सप्ताहिका मेघा अशीतिः कणशीकराः। षष्टिरातपमेधानां एषा वृष्टिस्समाहिता ॥ वातमातपयोगं च विषजन्यत्र वर्षति । त्रीन् कर्षकांश्च जनयन् तत्र तस्यागयो ध्रुवः ॥ ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत् । शालिव्रीहिकोद्रवतिलप्रियङ्गुदारकवरकाः पूर्ववापा। मुद्गमाषशैब्याय मध्यवापाः। कुसुम्भ मसूरकुळुन्थयवगोधूमकलायानसीसर्षपाः पश्चाद्वापाः। यथर्तुवशेन वा बीजवापाः । 1432 वापातिरिक्तमर्धसीतिका' कुर्युः । स्ववीर्योपजीविनो वा चतुर्थपञ्चभागिका. यथेष्टमनवसितं भाग दधुरन्यत्र कृच्छ्रेभ्यः स्वसेतुभ्यः । 1 सुषमा. करीषाच, दम, वराका कुसुम्ब. 6 सितभागं.