पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ प्रक.] हस्त्यध्यक्षे हस्तिप्रचारः 187 दध्नः पिण्डक्लेदनार्थ हार दशपलिकं मद्यस्य आढकं द्विगुणं वा 1712 पयसः प्रतिपानं गात्रावसेकस्तैलप्रस्थः शिरसोऽष्टभागः प्रादी- पिकश्च, यवसस्य द्वौ भारौ सपादौ शष्पत्य शुष्कास्यर्धतृतीयो भारः कडङ्करस्यानियमः । सप्तारनिरत्निना तुल्यभोजनोऽष्टारनिरत्यराऴः । यथाहस्तमवशेषः षडरत्नि पञ्चारत्निश्च । क्षीरयावासको विक्कः क्रीडार्थं ग्राह्यः । सञ्जातलोहिता प्रतिछन्ना संलिप्तपक्षा समकक्ष्याऽप्यतिकीर्ण- मांसा समतल्पतला जातद्रोणिकोति शोभाः । शोभावशेन व्यायाम भद्रं मन्द्रं च कारयेत् । मृगसङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा ॥ इत्यध्यक्षप्रचारे हस्त्यध्यक्ष एकत्रिंशोऽध्याय. आदितो द्विपञ्चाशः हस्त्यध्यले हस्तिप्रचारः. कर्मस्कन्धा. चत्वारः दम्यस्मान्नह्य औपवाह्यो व्यालश्च । तत्र दम्यः पञ्चविधः---स्कन्धमतः स्तम्भगतो वारिगतोऽपपा- तगतो यूथगतश्चेति । तस्योपविचारो विक्ककर्म। 172 3 1 व्यति. 2 मन्द । ऽवभातगतो, अअपातगतो गतगत.- इति व्या 18