पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

140 वक्षप्रथम अधि ३३ अध्या 1754 इष्वस्त्रपहरणावरणोपकरणकल्पनास्सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात् । आकर्षभ्यश्च भक्तवेतनं भृतानामभृता. नां च योग्यरक्षानुष्ठानमध्य मानकर्य च । एतेन पत्त्यध्यक्षो व्याख्यात । स मौलभृतश्रेणिमित्रामित्रा- टवीचलानां सारफल्गुनां विध्यात् । निम्नस्थलमकाशकूटखन- काकाशदिवारात्रियुद्धव्यायामं च विद्यात् । आयोगमयोगं च कर्मसु । तदेव सेनापनिस्सर्वयुद्धप्रहरणविद्याविनीतो हस्नत्यश्वरथ- चर्यासम्पष्टश्चतुरङ्गभ्य वलस्यानुष्ठानाधिष्ठानं विद्यात् ।स्वभूमिं युद्धकालं प्रत्यनीकमभिन्नभेदनं भिन्नसन्धानं संहतभेदन भिन्न- वधं दुर्गवधं यात्राकालं च पश्येत् । तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् । स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। इत्यध्यक्षप्रचारे रथाध्यक्षः पत्याध्यक्षः सेनापतिप्रचारश्च त्रयस्त्रिंशोऽध्यायः आदित चतुष्पञ्चाश. ५२-५३ प्रक. मुद्राऽध्यक्षः विवीताध्यक्षः. मुद्राऽध्यक्षो मुद्रा माषकेण दद्यात् । 1787 समुद्रो जनपद प्रवेष्टं निप्क्रमितुं वा लभेत । 1 योग्यार. मर्थ. 3 नास्ति.