पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७ प्रक.] व्यवहारस्थापना 147 PSTST 185 6 दिवसे पञ्चरात्रे वा बन्धनस्थान विशोधयेत् । कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा ।। अपूर्वदेशाधिगमे युवराजाभिषेचने । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे नागरकप्रणिधि षट्त्रिंशोऽध्यायः आदितस्सप्तपञ्चाश. एतावता कौटिलीयस्यार्थशास्त्रस्य अध्यक्षप्रचारो द्वितीयमाधिकरणं समाप्तम्


३. अधि. धर्मस्थीयम्. ५७-५८ प्रक. व्यवहारस्थापना विवादपदनिबन्धः. धर्मस्थास्त्रयस्त्रयोऽमात्या जनपदसन्धिसङ्ग्रहद्रोणमुखस्थानी येषु व्यावहारिकानर्थान् कुर्युः ।। तिरोहितान्तरगारनक्तारण्योपध्युपह्वरकृतांश्च व्यवहारान् प्र- तिषेधयेयुः । कर्तु. कारयितुश्च पूर्वस्साहसदण्ड । श्रोतृणामेकैकं प्रत्यर्धदण्डाः । श्रद्धेयानां तु द्रव्यव्यपनयः । परोक्षेणाधिकर्णग्रहणमवक्तव्यकरा का तिरोहिनास्सिद्धयेयु । 187 4 दायनिक्षेपोपनिधिविवाहयुक्ताः स्त्रीणामनिष्कासिनीनां व्या- 1 जनपदसग्रह. तरा.