पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९ प्रक.] विवाहसयुक्तम् 159 ब्राह्मणमधीयानं दशवर्षाण्यप्रजाताः', द्वादश प्रजाता। रा- 2012 जपुरुषमायुःक्षयादाकाङ्क्षेत । सवर्णतश्च प्रजाता नापवादं लभेत । कुटुम्बर्धिलोपे वा सुखावस्थैर्विमुक्ता यथेष्टं विन्देत । जीवितार्थमापद्गता वा धर्मविवाहात्कुमारी परिगृहीतारमना ख्याय प्रोषित श्रूयमाणं सप्ततीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमा- णं आख्थाय; प्रोषितमश्रूयमान पञ्चतीर्थान्याकाङ्क्षेत दश श्रूयमाणं : एकदेशदत्तशुल्क त्रीणि तीर्थान्यश्रूयमाणं ; श्रूयमाणं सप्ततीर्थान्याकाङ्क्षेत दत्तशुल्कं पञ्चतीर्थान्यश्रूयमाणं ; दश श्रूयमाणम् । अन्ततः पर धर्मस्यैर्विसृष्टा यथेष्टं विन्देत । तीर्थोपरोधो हि धर्मवध इति कौटिल्यः । दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्ततीर्था- न्याकाक्षेत । सवत्सरं प्रजाता । नतः पतियसोदर्यं गच्छेत् । बहुषु प्रत्यासन्न धार्मिक धर्मसमर्थ कनिष्टभार्य वा। तद भावेऽप्यसोदर्य सपिण्डं तुल्यं वा । आसन्नमेतेषां एष एव 2033 एतानुत्क्रम्य दायादान् वेदने जातकर्मणि । जारस्त्रीदातृवेत्तारम्संप्राप्तास्संङ्ग्रहात्ययम् ।। इति धर्मस्थीये विवाहसंयुक्ते निपष्तनं पथ्यनुसरणं ह्रस्वप्रवासः दीर्घप्रवासश्च चतुर्थोऽध्याय विवाहसंयुक्तं समाप्तम् आदित एकषष्ठितमः 1, 2 जातात . ट कुल्य,