पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

160 धर्मस्यीयम् धि ५ अध्या. ६० प्रक. दायविभागे-दायक्रमः 2034 अनीश्वराः पितृमन्तस्थितपितृमातृका पुत्राः । तेषां ऊर्ध्वं पित्तो दायविभागः पितृद्रव्याणां स्वयमार्जितमविभज्यं अ न्यत्र पितृद्रव्यानुत्थितेभ्यः ॥ पितृद्रव्यादविभक्तोपगतानां पुत्राः पौत्रा वा चतुर्थादित्यं शभाजः तावदविच्छिन्न पिण्डो भवति । विच्छिन्नपिण्डा स्सर्वे समं विभजेरन् ।। अपितृद्रव्या विभक्तपितृव्या वा सहजीवन्तः पुनर्विभ- जेरन् । यतश्चोत्तिष्ठेत ल ऋद्धयंश लभेत ॥ द्रव्यमपुत्रम्य सोदर्या भ्रातरः सहजीवनो वा हरेयुः कन्याश्च रिक्थम् ॥ पुत्रवतः पुत्रा दुहितरो वा धीमष्ठेषु विवाहेषु जाताः ॥ तदभावे पिता धरमाण; पित्रभावे भ्रातरो भ्रातपुत्राश्च ॥ अपितृका बहवोऽ पि च भ्रातरो भ्रातृपुत्राश्च पितुरेक मंशं हरेयुः । सोदर्याणामनेकापितृकाणां पितृतो दायविभागः पितृभ्रातृ- 204 3 पुत्राणां पूर्वे विद्यमाने नापर मवलम्बन्ते । ज्येष्ठे च कनि- ष्ठमर्धग्राहिणम् ॥ यश नावर. मर्थ