पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०.१३२ प्रक.]
831
पीडनस्तम्भकोशसङ्कवर्गाः

१३०-१३२ प्रक. पडिनवर्गः, स्तम्भवर्गः,

कोशसङ्गवर्गश्च.


दैवपीडनमग्निरुदकं व्याधिभिक्षं मरक इति ।
अग्न्युदकयोराग्निपीडनमप्रतिकार्यं; सर्वं हि च शक्यो- 401 1

पशमनं तार्याबाधकमुक्तं उदकपीडनमित्याचार्याः ।।

 नेति कौटिल्यः-अग्नािममर्धग्रामं वा दहति ; उदकवे- गस्तु ग्रामशतप्रवाहीति। व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधितापसृष्टपरिचारकच्याया- मोपरोधेन कर्माण्युपहन्ति ।

 "दुर्भिक्षं पुनरकर्मोपघाति हिरण्यपशुकरदायि च" इत्याचार्याः।

 नेति कौटिल्यः-- एकदेशपीडनो व्याधि शक्यमतीकारश्च ; सर्वदेशपीडनं दुर्भिक्षं प्राणिनामजीवनायेति ।

 तेन मरको व्याख्यातः ।

 "क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मानुष्ठानोपरोधधर्मा" इत्याचार्याः ।

 नेति कौटिल्यः--शक्यः क्षुद्रक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकारणान्न मुख्यक्षय । सहस्त्रेषु हि मुख्यो भवत्येको न वा सत्त्वमज्ञाधिक्यादाश्रयत्वात् क्षुद्रकाणामिति ।।

 *स्वचक्रपरचक्रयोस्स्वचक्रमतिमात्राभ्यां अपकाराभ्यां पी. 4019 डयत्यशक्यं च वारयितुं परचक्रं तु शक्यं प्रतियोद्धमपसारेण सन्धिना वा मोक्षयितुम्" इत्याचार्याः ।


____ 1 सर्वदाहि ब. 930ट 4 कर्मणामयोगक्षेम करोति । मुख्यक्षय कर्मानु--- धिक्यात्तदाश्र, 7 दण्डकराभ्या,