पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०-१३२ प्रक]
833
पाडनस्तम्भकोशसङ्गवर्ग:

 नेति कौटिल्यः-शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं 402 7 न सुभगा, बालिश्यादनर्थ्यजनसंयोगाच्चेति ।

 "श्रेणीमुख्ययोः श्रेणी बाहुल्यादनवग्रहास्तेयसाहसाभ्यां पीडयति ; मुख्य कार्यावग्रह विधाताभ्याम् " इत्याचार्याः ।

 नेति कौटिल्यः-सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्। श्रेणीमुख्यैकदेशोपग्रहेण वा । स्तम्भयुक्तो मुख्यः परप्राणद्र- व्योपघाताभ्यां पीडयतीति ।

 "सान्निधातृसमाहर्त्रोस्सानिधाता कृतविदूषणात्ययाभ्यां पी डयति । समाहर्ता करणाधिष्ठितः प्रदिष्टफलोपभोगी भवति" इत्याचार्याः ।

 नेति कौटिल्यः-सन्निधाता कृतावस्थमन्यैः कोशप्रवश्यं प्रतिगृह्णाति। समाहर्ता पूर्वमर्थमात्मनः कन्या पश्चाद्राजार्थं करो. ति, प्रणाशयति वा परस्वादाने च स्वप्रत्ययश्चरतीति ।

  “अन्तपालवैदेहकयोरन्तपालश्चोरनसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति वैदेहकस्तु° पण्यप्रतिपण्यानुग्रहै प्रसाधयति" इत्याचार्या ।

 नेति कौटिल्य'---अन्तपाल पण्यसम्पातानुग्रहेण वर्तयति। 409 6 वैदेहकास्तु सम्भूय पण्यानामुत्कर्षापकर्ष कुर्वाणा. "पणे पणशतं, कुम्मे कुम्भशतम्" इत्याजीवन्ति ।


___1,8,5,8. 2 कार्यानुमह " सख्यावा. : कास्तु र यन्ति,