पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३-१३४ प्रक)
335
बलव्यसनवर्ग मित्रव्यसनवर्गश्च

आभ्यन्तरो मुख्यस्तम्भो बाह्यो मित्राटवीस्तम्भ इति स्तम्भ 4047 वर्गः। ताभ्यां पीडनैर्यथोक्तश्च पीडितस्सक्तो मुख्येषु परिहारो पहतः प्रकीर्णो मिथ्यासम्भृत. सामन्ताटवीभृत इति कोशसङ्गाः।

पीडनानामनुत्पत्तौ उत्पन्नानां च वारणे ।
यतेत देशवृद्धयर्थ नाशे च स्तम्भसङ्गयो ॥

इति व्यसनाधिकारिक पीडनवर्ग. स्तम्भवर्गः कोशसङ्गवर्गः

चतुर्थोऽध्याय

आदितो विंशतिशताध्यायः


१३३-१३४ प्रक. बलव्यसनवर्गः मित्रव्यसनवर्गश्च


 बलव्यसनानि अमानितं विमानितं अभृतं व्याधितं नवागतं 405 3 दुरयातं परिश्रान्तं परिक्षीणं प्रतिहतं हताग्रवेगं अनृतुप्राप्तं अभूमिप्राप्तं आशानिर्वेदि परिसृप्तं कळत्रगर्हि अन्तश्शल्यं कुपितमूलं भिन्नगर्भ अपसृतं अतिक्षिप्तं उपनिविष्टं समाप्तं उपरुद्धं उपक्षिप्तं छिन्नधान्यपुरुषवीवधं स्वविक्षिप्तं मित्रविक्षिप्तं दूष्ययुक्तं दुष्टपार्ष्णिग्राहं शून्यमूलं अस्वामिसंहतं भिन्नकूटं अन्धमिति ।

 तेषाममानितविम नितयोरमानितं कृतार्थमानं युभ्येत न . विमानितमन्तःकोपस् ।

 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधित- 406'2 मकर्मण्यम् ।