पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
336
[८ अधि ६ अध्या.
व्यसनाधिकारि कम्

4063 नवागतदूरयातयोनवागतमन्यत उपलब्धदेशमनवामिश्रं युध्येत न दूरयातमायतगतपरिक्लेशम् ।

 परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्त्रानभोजनस्वप्नलब्धविश्र- मं युध्येत न परिक्षीणयुग्य'पुरुषम् ।

 प्रतिहतहताप्रवेगयोः प्रतिहतमग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगमग्रपातहतप्रवीरम् ।

  अनृत्वभूमिप्राप्तयोरनृतुप्राप्तं यथर्तुयोग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तमवरुद्धप्रसारव्यायामम् ॥

 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तमपसृतम् ।

 कळत्रगर्ह्यन्तश्शल्ययोः कळत्रगह्र्युन्मुच्य कळत्रं युध्येत, ना- न्तश्शल्यमन्तरमित्रम् ।

 कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्यु- ध्येत न भिन्नगर्भमन्योन्यस्माद्भिन्नम् ।

 अपसृतातिक्षिप्तयोरपसृतमेकराज्यातिक्रान्तममन्त्र व्यायामा- भ्यां सत्रिमित्रापाश्रयं युध्येत, नातिक्षिप्तमनेकराज्यातिक्रान्तं बहाबाधत्वात् ।

4072 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथक्ज्ञानस्थानमतिस्कन्धावार युध्येत, न समाप्तं परिणतैकस्थान यानम् ।


1 परिक्षिणमन्यत्राहवे क्षाणयुग्य क्रान्त मन्त्र. पृथग्यानर्मातसन्धाकार 4 आरणकस्थान.