पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५-११६ प्रक.
339
शाक्तिदेशकालबलाबलज्ञानं, यात्राकालाश्च

९. अधि. आभियास्यत्कर्म.


१३५.१३६ प्रक शक्तिदेशकालबलाबलज्ञा

नं, यात्राकालाश्च.


 विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालया- 4111 त्राकालबलसमुत्थानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात् । अन्यथाऽऽसीत ।।

 उत्साहप्रभावयोरुत्साहः श्रेयान् । स्वयं हि राजा शूरो बलवानरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्। अल्पोऽपि चास्य दण्डस्तेजसा कृत्यकरो भवति।।

 "निरुत्साहस्तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति" इत्याचार्याः ॥

 नेति कौटिल्यः-प्रभाववानुत्साहवन्तं राजानं प्रभावना- तिसंधत्ते । ताद्विशिष्टमन्यं राजानं आबाह्य हृत्वा क्रीत्वा प्रवीरपुरुषान्- प्रभूतप्रभावहयहस्तिरथोपकरणसम्पन्नश्चात्य दण्ड स्सर्वत्रामतिहतश्चरति । उत्साहवन्तश्च प्रभाववन्तो जित्वा क्रीत्वा च "स्त्रियो बालाः पङ्गवोन्धाश्च पृथिवीं जिग्युः" इति ।।

 "प्रभावमन्त्रयोः प्रभावः श्रेयान् । मन्त्रशक्तिसम्पन्नो हि 4114 बन्ध्यबुद्धिरप्रमावो भवति । मन्त्रकर्म चास्य निश्चितमप्रभावो गर्भधान्यमवृष्टिरिवोद्वमति" इत्याचार्याः ॥


1. रिवोपहन्ति.