पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ प्रक.] क्षयव्ययलाभविपरिमर्शः 349 कल्याणबुद्धिस्तु सहजीव्यर्थमुपजपति । कल्याणबुद्धिना 423 1 संदधीत । शठं " तथा" इति प्रतिगृह्यातिसंदध्यात् ।। इत्येवमुपलभ्यम् ॥ परे परेभ्यस्स्वे स्वेभ्यः स्वे परेभ्यस्स्वतः परे । रक्ष्यास्स्वेभ्यः परेभ्यश्च नित्यमात्मा विपश्चिता ॥ इत्यभियास्यत्कर्मणि पश्चात्कोपचिन्ता, बाह्याभ्यन्तर. प्रकृतिकोपप्रतीकारश्च तृतीयोऽध्यायः आदितश्चतुर्विशशतोऽध्यायः १४२ प्रक क्षयव्ययलाभविपरिमर्श युग्यपुरुषापचयः क्षयः॥ हिरण्यधान्यापचयो व्ययः ॥ ताभ्यां बहुगुणविशिष्टे लाभे यायात्।। आदेयः, प्रसादेयः, प्रसादका, कोपक, ह्रस्वकालः, तनु- क्षयः, अल्पव्ययः, महान्वृद्धयुदयः, कल्यः, धर्म्यः, पुरोगश्चेति लाभसम्पत् ॥ सुपायानुपाल्यः परेषामप्रत्यादेय इति आदेयः, विपर्य- ये प्रत्यादयः, तमाददानस्तत्रस्थो वा विनाशं प्राप्नोति ॥ यदि वा पश्येत्- "प्रत्यादेयमादाय कोशदण्डनिचयरक्षा- 4229 विधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवाणक्प- 1 प्रकोपका.