पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
412
[१४ अधि. १ अध्या
औपनिषादिकम्

4972 न्मारयति । काळीकुष्ठनडशतावरीमूलं सर्पपचलाककृकणपञ्च

कुष्ठचूर्ण वा धूमः पूर्वकल्केनाशुष्कपलालेन वा प्रणीतस्सङ्गा

मावतरणावस्कन्दनकालेषु' कृतेनाञ्जनोदकाक्षिप्रतीकारैः प्रणी.

तस्सर्वमाणिनां नेत्रघ्नः ।

 शारिकाकपोतबकबलाकालण्डमङ्काक्षीपीलुक स्तुहिक्षीरपिष्ट

मन्धीकरणमञ्जनमुदकदूषणं च ।।

 यवकशाल मूलमदनफलजातीपत्रनरमूत्रयोगः प्लक्षविदारीमूल

युक्तो मूकोदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो

वा मदनयोग। शृङ्गिगौमेवृक्ष'कण्टकारमयूरपदीयोगो गुञ्जाला

ङ्गलीविषमूलिकेङ्गुदीयोगः । करवीराक्षिपीलुकार्कमृगमारणी

योगो मदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मद-

नयोगः । समस्ता वा यवसेन्धनोदकदूषणाः ।

 कृतपण्डककृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधमुन्यादं

च करोति ।

 कृक्रलासगृहगोळिकायोगः कुष्ठकरः ।

 स एव चित्रभेकान्त्रमधुयुक्तः प्रमेहमापादयति । मनुष्यलो

हितयुक्तः शोषम् ।

 ूदूषिविषं मदनकोद्रवचूर्णमपजिह्विकायोगः ।

4998 मातृवाहकाञ्जलिकारप्रचलाकमेकाक्षिपलिकयोगो विषूचि

काकरः।


1 स्कन्दनसकुलेषु. 2 मर्काक्षिपीलक. शालि. 4 गौतमवृक्ष. कृतकण्ड 6 गौलि.