पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
414
[१४ अघि २ अध्या
औपनिषदिकम्

5001  माल्येन चैकपन्नयग्निं पुंश्चल्यग्निं च सर्षपैः ।

  दघ्ना च सूतिकास्वग्निमाहिताग्निं च तण्डुलैः ॥

  चण्डालाग्निं च मासेन चिताग्निं मानुषेण च ।

  समस्तान् वस्तवसया मानुषेण ध्रुवेण च ।

  जुहुयादग्निमन्त्रेण राजवृक्षकदारुभिः।

  एष निष्पतिकारोऽग्निर्द्विषतां नेत्रमोहनः ॥

 आदिते नमस्ते अनुमते नमस्ते सरस्वति नमस्ते सवितर्नम

स्ते ; अग्नये स्वाहा : सोमाय स्वाहा ; भूस्स्वाहा ; भुवस्स्वाहा।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे परघातप्रयोगः प्रथमोऽध्यायः

  आदितः षट्चत्वारिंशदुत्तरशत


१७८ क. प्रलम्भने अद्भुतोत्पादनम्,


 शिरीषोदुम्बरशमीचूर्णं सर्पिषा हृयार्धमासिकः क्षुद्योगः ।

 कशेरुकोत्पलकन्देक्षुमूलविसदूर्वाक्षीरघृतभण्डमिद्धो मा.

सिकः ।

 माषयवकुलुत्थदर्भमूलचूर्णं वा क्षीरघृताभ्यां ; वल्लीक्षीरघृतं

वा समसिद्धं सालपृश्नि पर्णीमूलकल्क पयसा पीत्वा; पयो

दा तत्सिद्धं मधुघृताभ्यामशित्वा; मासमुपवसति ।

5011  श्वेतवस्तमूत्रे सप्तरात्रोषितैः सिद्धार्थकैस्सिद्धं तैलं कटुका.

लाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम् ।


1 सिंहया, 2 सालपश्नि.