पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८ प्रक
415
प्रलम्भने अद्भुतोत्पादनम्

 तक्रयवभक्षस्य सप्तरात्रादूर्ध्वं श्वेतगर्दभस्य लण्डयवैस्सिद्धं 501 2

गौरसर्षपतैल विरूपकरणम् ।

 एतयोरन्यतरस्य मूत्रलण्डरससिद्धं सिद्धार्थतैलमर्कतूलपतङ्ग-

पूर्ण प्रतिवापं श्वेतीकरणम् ।

 श्वेतकुक्कुटाजगरलण्डयोगः श्वेतीकरणम् । श्वेतवस्तमूत्रे श्वेत-

सर्षपाः सप्तरात्रोषितास्तक्रमर्कक्षीरलवणं धान्यं च पक्षस्थितो

योगः श्वेतीकरणम् ।

 कटुकालाबूवल्लीगते गतमर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां

श्वेतीकरणम् ।

 अलाबुनेति यः कीट: श्वेता च गृहगोळिका ।

 एतेन पिष्टेनाभ्यक्ताः केशास्स्युः शङ्खपाण्डराः ॥

 गोमयेन निन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसा-

नुलिप्तस्य मासिकः कुष्ठयोगः।

 कृष्णसर्पमुखे गृहगौलिकामुखे वा सप्तरात्रोषिता गुञ्जाः

कुष्ठयोगः।

 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः ।

 कुष्ठस्य प्रियाळकल्ककषायः प्रतीकारः।

 कुक्कुटकोशातकीशतावरीमूलयुक्तमाहारयमाणो मासेन गौरो

भवति ।

वटकषायस्नात' सहचरकल्कदिग्धः कृष्णो भवति । 502 4


1 चूर्ण, अलो नेति यः कीट .