पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८ प्रक.]
417
प्रलम्भने अद्भुतोत्पादनम्

 हंसक्रौञ्चमयूराणां अन्येषां वा महाशकुनीनां उदकप्लवानां 503 8

पुच्छेषु बद्धा नळदीपिका रात्रावल्कादर्शनम् ।

 वैद्युतं भस्माग्निशमनम् ।

 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलमण्डूकवसामिश्र चुल्लया

दीप्तायामपाचनम् ।

 चुल्लीशोधनं प्रतीकारः।

 पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिीर्वा

विचु'परिवेष्टितो मुखादग्निधूमोत्सर्गः ।

 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति ।

 समुद्रफेनकस्तैलयुक्तोऽम्भसि प्लवमानो ज्वलति ।

 प्लव(ङ्ग)मानामस्थिषु कल्माषवेणुना निर्मथितोऽग्निनोंदकेन

शाम्यत्युदकेन ज्वलति ।

 शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपशु कास्थिषु

कल्माषवेणुना निर्मथितोऽग्निः स्त्रियाः पुरुषस्य वाऽस्थिषु मनु-

प्यपशु कया निर्मथितोऽग्निर्यत्र त्रिरपसव्यं गच्छति, न चात्रा-

न्योऽग्निर्ज्वलति ।

 चुचुन्दरी खञ्जरीटः खारकीटश्च पिष्यते । 504 7

 अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम् ।।

 अयस्कान्तो वा पाषाणः कुलिन्द दर्दुरखारकीटवसाप्रदेहेन

द्विगुणो नारकगर्भः कङ्कभासपार्श्वोत्पलोदकपिष्टश्चतुष्पदद्विपदा-


1 पिच. 2पर्शु. 3 कुलिण्ड.

53