पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६ प्रक
127
नावध्यक्ष


सृष्टतारिणः पादोनसप्तविंशतिपणः तरात्ययः। कैवर्तकाष्ठतृणभा 157 12 रपुष्पफलवाटषण्ड गोपालकालानामनत्ययस्सम्भाव्यदूतानुपातिनांच सेनाभाण्डप्रचारप्रयोगाणा च स्वतरणेस्तरतां बीजभक्तद्रव्यो पस्करांश्चानूपग्रामाणां तारयताम् ।  ब्राह्मणप्रव्रजितबालवृद्धव्याधित शासनहरगर्भिण्यो नावाध्य. क्षमुद्राभिस्तरेयु.।
 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा विंशेयुः ।
 परस्य भायाँ कन्यां वित्तं वाऽपहरन्तं शाङ्कितमाविग्नमुद्भाण्डी- कृतं यहाभाण्डेन मूर्धनि भारेणावच्छादयन्तं सद्योगृहीतलिंङ्गिनं अलिंङ्गिन वा प्रव्रजितमलक्ष्यव्याधितं भयविकारिण गूढसारभा. ण्डशासनशस्त्राग्नियोग विषहस्ते दीर्घपथिक ममुद्रं चोपग्राहयेत् ।

क्षुद्रपशुमनुष्यश्च सभारोमाषकं दद्यात् ।
शिरोभार कायभारो गवाश्वं च द्वौ।
उष्ट्रमहिषं चतुर ।
पञ्च लघुयानम् ।
षड् गोलिङ्गम् ।
सप्त शकटम् ।
पण्यभारः पादम्।
तेन भाण्डभारो व्यख्यातः ।
द्विगुणो महानदीषु तरः ।
क्लृप्तमानूपग्रामा भक्तवेतनं दद्युः ।


1591 1प्रविप्रना