पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७ प्रक.]
321
प्रकृतिव्यसनवरी:

वृद्धि क्षयं च स्थानं च कर्शनोच्छेदनं तथा ।
सर्वोपायान् समादध्यादेतान्यश्चार्थशास्त्रवित् ।।

एवमन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति ।
स बुद्धिनिगळैर्वद्धैरिष्टं क्रीडति पार्थिवैः ।।

इति षाड्गुण्ये मध्यमचरितमुदासीनचरितं

मण्डलचरितमष्टादशोऽध्याय .

आदित. पोडशशतः.

एतावता कौटिल्यस्यार्थशास्त्रस्य षाडड्गुण्यं

सप्तमाधिकरणं समाप्तम्


८ अधि, व्यसनाधिकारिकम्.


१२७ प्रक. प्रकृतिव्यसनवर्गः.


 व्यसनयौगपद्ये सौकर्यतः “यातव्यं रक्षितव्यं च" इति व्यसनाचिन्ता ।।

 दैवं मानुषं वा प्रकृतिव्यसनमनयापनयाभ्यां संभवति । 891 1 गुणप्रातिलोम्यमभावः प्रदोषः प्रसङ्ग पीडा वा व्यसनं "व्य- स्यत्येनं श्रेयसः" इति व्यसनम् !!


1 प्रसङ्गः