पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
76
२ अधि ११ अध्या
अध्यक्षप्रचार


864  मसूरकं त्रिपुटकं कर्मकमर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं
871 खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्ध चाप्रशस्तम् ।
 स्थूलं वृतं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्।
 शीर्षकमुपशर्षिकं प्रकाण्डमवघाटकं तरळप्रतिबन्धं चेति यष्टि प्रदेशाः।
 यष्टीनामष्टसहस्रमिन्द्रच्छन्द । ततोऽर्थ विजयच्छन्दः । चतु. ष्षष्टिरर्वहारः । चतुष्पञ्चशाद्रश्मिकलाप' ! द्वात्रिंशद्गुच्छाः । सप्त- विंशतिनक्षत्रमाला। चतुर्विंशतिरर्धगुच्छ । विंशतिर्माणवक । त- तोऽर्धमर्धमाणवकः । एत एव मणिमध्यास्तन्माणवका भवन्ति । एकशीर्षकश्शुद्धो हार । तद्वच्छेया । मणिमध्योऽर्धमाणवकः । त्रिफलकः फलकहार पञ्चफलको वा ! सूत्रमेकावली शुद्धा । सैव मणिमध्या यष्टिः । हेममणिचित्रा रत्नावली । हेममणिमुक्तान्त रोऽपवर्तकः । सुवर्णसूत्रान्तर सोपानकम् । मणिमध्यं वा मणि सोपानकं ।
884 तेन शिरोहस्तपादकटी कलापजालकविकल्पा व्याख्याताः । मणिः कौटो मोलेय'कः पारसमुद्रकश्च ।
 सौगन्धिकः, पद्मरागः, अनवद्यरागः", पारिजातपुष्पकः, बा- लमूर्यकः । वैडूर्यः-उत्पलवर्ण शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्रवर्णः पुण्यरागो गोमूत्रको गोमेदकः । नीलावलीय" इन्द्र-


1 बन्धकं. 2.छ. 3.कटि. 4.माले. 5.पानवधरागः. 6.यक