वधः परिक्लेशोऽर्थहरणं दण्ड इति ।
अकान्तिर्व्याघात. पुनरुक्तमपशब्दः सम्प्लव इति लेखदोषाः ।।
तत्र कालपत्रकम चारुविषमविरागाक्षरत्वमकान्तिः ।
पूर्वेण पश्चिमस्यानुपपत्तिव्यार्धातः । उक्तस्याविशेषण द्वि-
तीयमुच्चारणं पुनरुक्तम् ।
लिङ्गवचनकालकारकाणामन्यथाप्रयोगोऽपशब्दः ।
अवर्गे वर्गकरणं वर्गे चावर्गक्रिया गुणविपर्यासस्संप्लव इति ।
सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च। 8511
कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ।।
इत्यध्यक्षप्रचारे शासनाधिकार: दशमोऽध्यायः
आदित एकत्रिंशः
२९ प्रक. कोशप्रवेश्यरत्नपरीक्षा,
कोशाध्यक्ष. कोशप्रवेश्यं रत्नं सारं फल्गु कुप्यं वातजात- 86 1
करणाधिष्ठितः प्रतिगृह्णीयात् ।
ताम्ब पणिकं पाण्डयकवाटकं, पाशिक्यं, कौलेयं, चौर्णेय,
माहेन्द्रं, कार्दमिक, स्रौतसीयं, ह्लादीय, हैमवतं च मौक्तिकम् ।
शुक्तिः शङ्खः प्रकीर्णकं च योमयः ।
1.तत्र निपुणा तज्जाता करण तदविकृतपुरुषाणा सामग्री तदधिष्ठितम्तत्समेत
इति टीका.
2 तान्न. 3. पा.