पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
74
१२ अधि.१० अध्या
अध्यक्षप्रचार

विविधा तो व्यवस्यन्ति प्रवृत्तिं शासनं प्रति !!
दृष्ट्रा लेखं यथातत्त्व तत प्रत्यनुभाष्य च।
प्रतिलेखो भवेत्कार्यो यथा राजवचस्तथा ।।
यत्रेश्वरांश्चाधिकृतांश्च राजा
रक्षोपकारौपयिकार्थमाह !
सर्वत्रगो नाम भवेत्स मार्गे
देशे च सर्वत्र च वेदितव्य ।।
उपायास्सामोपप्रदानभेददण्डाः ।

 तत्र साम पञ्चविध----गुणसङ्कीर्तनं सम्बन्धोपाख्यानं परस्प रोपकारसन्दर्शनमायतिप्रदर्शनमात्योपनिधानामिति ।
 तत्राभिजनशरीरकर्मप्रकृतिश्रुतिद्र'व्यादीनां गुणागुणग्रहणं प्रशंसास्तुतिर्गुणसङ्कीर्तनम् ।
 ज्ञातियोनमौखस्रौदकुलहृदयमित्रसङ्कीर्तनं सम्बन्धोपाख्यानम्
 स्वपक्षपरपक्षयोरन्यान्योपकारसङ्कीर्तन परस्परोपकारसन्दर्श- नम्।
 आस्मन्नेवं कृत इदमावयोर्भवतीसाशाजननमायातमदर्शनम् ।

551 “योऽह स भवान्यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयोज्यता
म्" इत्यात्मापनिधानमिति ।
उपमदानमर्थोपकारः।
शङ्काजननं निर्भर्सनं च भेद ।