वर्णसद्धातः पदम् । तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्चेति।
तत्र नाम सत्त्वाभिधायि । अविशिष्टलिङ्गमाख्यात क्रि
यावाचि । क्रियाविशेषिताः प्रादय उपसर्गाः । अव्यया-
श्वादयो निपाता ॥
पदसमूहो वाक्यमर्थपरिसमाप्तौ; एकपदावरस्बिपदपरः
परपदार्थानुरोधेन वर्गः कार्यः ! लेखकपरिसंहरणार्थ इति
शब्दो वाचिकमस्येति च ॥
निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना ।
प्रत्याख्यानमुपालम्भः प्रतिषेधोऽथ चोदना ॥
सान्त्वमभ्यवपत्तिश्च भर्त्सनानुनयौ तथा ।
एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः॥
तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा ।
गुणवचनयेतेषामेव प्रशंसा।
“कथमेतदिति" पृच्छा।
"एवम्" इत्याख्यानम् ।
देहीत्यर्थना ।
"न प्रयच्छामी" इति प्रत्याख्यानम् ॥
अननुरूपं भवत इत्युपालम्भः ।
'मा कार्षी.” इति प्रतिषेधः ।
"इदं क्रियताम्" इति चोदना।
"योऽहं स भवान् , मम द्रव्यं तद्भवतः" इत्युपग्रहः सान्त्वम् ।
1. षका.