पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७ प्रक,]
69
उपयुक्त परीक्षा


 यस्समुदयं व्ययमुपनयति स पुरुषकर्माणि भक्षयति । स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः।
 तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्म- णो याथातथ्ययमायव्ययौ च व्याससमासाभ्यामाचक्षीत ।

 मलहरतादात्विककदर्याश्च प्रतिपेधयेत् ।
 यः पितृपैतामहमर्थमन्यायेन भक्षयति, स मूलहरः ।
 यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।

 यो भृत्यात्मपीडाभ्यामुपचिनोत्यर्थ स कदर्यः । स पक्ष वांश्चदनादेयः; विपर्यये पर्यादातव्यः ।
 यो महत्यर्थसमुदये स्थित कदर्यस्सन्निधत्ते, उपनि धत्ते, अव स्रावयति वा---सन्निधत्ते स्ववेश्मनि, अवनिधत्ते पौर- जानपदेषु, अवसावयति परविषये,--तस्य सत्री मन्त्रिमि- त्रभृत्यबन्धुपक्षमागतिं गतिं च द्रव्याणामुपलभेत ।
 यश्चापर विषये सञ्चारं कुर्यात्तमनुप्रविश्य मन्त्र विद्यात् । सुविदिते शत्रुशासनापदेशेनैनं घातयेत् ।
 तस्मादख्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहको- त्तराध्यक्षसखाः कर्माणि कुर्युः ।
 उत्तराध्यक्षः -हस्त्यश्वरथारोहास्तेषामन्तेवासिनशिल्पशौ- 798 चयुक्तास्सङ्ख्यायकादीनामपसर्पाः ।

बहुमुख्यमनित्यं चाधिकरणं स्थापयेत् ।
यथा ह्यनास्वादयितुं न शक्यं


। अवनि, अप, यथास्य पर. क्षा .