पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
68
२ अधि. ९ अध्या
अध्यक्षप्रचार:

२७ प्रक. उपयुक्तपरीक्षा.


 अमात्यसम्पदोपेतास्सर्वाध्यक्षाशक्तितः कर्मसु नियोज्याः । कर्मसु चैषां नियं परीक्षां कारयेत् चित्तानित्यत्वान्मनुष्याणा- म् । अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।
 तस्मात्कर्तारं करणं देशं कालं कार्य प्रक्षेपमुदयं चैषु विद्यात् । ते यथासन्देशमसंहता अविगृहीताः कर्माणि कुर्युः । संहता भक्षयेयुः । विगृहीता विनाशयेयुः । न चानिवेद्य भर्तुः किञ्चिदारम्भं कुर्युरन्यत्रापत्प्रतीकारेभ्यः । प्रमादस्थाने- घु चैषामत्ययं स्थापयेद्दिवसवेतनव्ययद्विगुणम् ।
 यश्चैषां यथाऽऽदिष्टमर्थ सविशेष वा करोति स स्थानमानौ लभेत।
 "अल्पायतिश्चेन्महाव्ययो भक्षयति । विपर्यये, यथाऽऽयति-- व्ययश्च न भक्षयति" इत्याचार्याः ।
 अपसर्पणैवोपलभ्यते” इति कौटिल्यः ।
 यस्समुदयं परिहापयति स राजार्थ भक्षयति । स चेदज्ञा- नादिभिः परिहापयति तदेनं यथागुणं दापयेत् ।
 यस्समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति । स चेद्राजार्थमुपनय त्यल्पापराधे वारयितव्यः; महति यथाऽपराधं दण्डयितव्यः ।


1 पहा.