पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
280
[७ अघि ६ अध्या.
पाईगुण्यम्

345 2  तस्मिन् विशेषे परिपणितकालं सन्धिमुपेयात् ॥

 यदि वा मन्येत-"प्रत्यादेयं प्रकृतिकोपं दीर्घकालं म. हाक्षयव्ययमल्पमनर्थानुबन्धमकल्यमधर्म्यमध्य[१] मोदासीनविरुद्धं मित्रोपघातकं वा कार्यं परस्साधायिष्यति, विपरीतमहम्" इत्येतस्मिन् विशेषे परिपणितार्थ सन्धिमुपेयात् ॥

 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः । तस्मिन् प्रागेवारभ्य प्रतिष्ठाप्य च स्वकर्माणि, परकर्मसु विक्रमेत ॥ व्यसनत्वरावमानालस्ययुक्तमज्ञं वा शत्रुमतिसन्धातुकामो देशकालकार्याणामनवस्थापनात् “ संहितौ स्वः" इति सन्धिविश्वासेन परच्छिद्रमासाद्य प्रहरेदित्यपरिपणितः ।।

 तत्रैतद्भवति-

 सामन्तेनैव सामन्तं विद्वानायोज्य विग्रहे ।
 ततोऽन्यस्य हरेद्भूमि जित्वा[२] पक्ष[३] समन्ततः ।।
सन्धेरकृतचिकीर्षा, कृत श्लेषणं कृतविदूषणमवशीर्णक्रियाच

 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं, तूष्णीयुद्धमिति, सन्धिविक्रमौ ॥

346 4  अपूर्वस्य सन्धेस्सानुबन्धैस्सामादिभिः पर्येषणं समहीनज्यायसां च यथावलमवस्थापनमकृतचिकीर्षा ॥

 कृतस्य प्रियहिताभ्यामुभयतः परिपालनं यथासम्भाषित



  1. मधर्म्य मध्य
  2. छित्वा
  3. पक्ष.