१११-१२ प्रक, संहितप्रयाणिकम्, परिपणि-
तापरिपणितापसृतसन्धयश्च.
विजिगीषुर्द्वितीयां प्रकृतिमेवमातसन्दध्यात् । सामन्तं संहितप्रयाणे योजयेत्-~~-" त्वमितो याहि, अहमितो यास्यामि, समानो लाभ इति" ॥
लाभसाम्ये सन्धिः । वैषम्ये विक्रमः ॥
सन्धिः परिपणितश्चापरिपणितश्च ।।
" स्वमेत देशं याह्यहामिम देशं यास्यामीति" परिपणितदेशः ॥ त्वमेतावन्तं कालं चेष्टस्व, अहमेतावन्तं काल चेष्टिष्य इति परिपणितकालः ॥
त्वमेतावत्कार्य साधय, अहमेतावत्कार्य[१] साधयिष्यामी- ति" परिपणितार्थः ॥
यदि वा मन्येत----" शैलवननदीदुर्गमटवीव्यवहितं छिन्नंधान्यपुरुषवीवधासारमयवसेन्धनोदकमविज्ञातं प्रकृष्टमन्यभावदे- शीयं वा सैन्यव्यायामानामलब्धभौमं वा देशं परो यास्यति, विपरीतमहं" इत्येतस्मिन् विशषे परिपाणितदेशं सन्धिमुपेयात् ।।
यदि वा मन्येत “प्रहर्षोष्ण[२]शीतमतिव्याधिप्रायमुपक्षीणा हारोपभोग सैन्यव्यायामानां चौपरोधिक कार्यसाधनाना-
मूनमतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरतिमहम्" इत्ये-