पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
320
[ अधि. १८ अध्या.
पाईगुण्यम्

 तत्कुलीनावरुद्धाभ्यां भूमि वा तस्य हारयेत् ।
 यथा वाऽनुग्रहापेक्षं वश्यं तिष्ठेत्तथा चरेत् ॥
 नोपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितम् ।
 तदहीनमवृद्धं च स्थापयन्मित्रमर्थावित् ॥
 अर्थयुक्त्या चलं मित्रं सन्धि यदुपगच्छति ।
 तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ॥
 अरिसाधारणं यद्वा तिष्ठेत्तदरितश्शठम् ।
 भेदयेद्भिन्नमुच्छिन्द्यात्ततश्शत्रुमनन्तरम् ।।
 उदासीनं च यत्तिष्ठेत्सामन्तस्तद्विरोधयेत् ।
 ततो विग्रहसंतप्तमुपकारे निवेशयत् ।।
 अमित्रं विजिगीषुं च यत्संचरति दुर्बलम् ।
 तद्बलेनानुगृह्णीयाद्यथा स्यान्न पराङ्मुखम् ।।
 अपनीय ततोऽन्यस्यां भूमौ वा संनिवेशयेत् ।
 निवेश्य पूर्वं तत्रान्यद्दण्डानुग्रहहेतुना ॥
 अपकुर्यात्समर्थं वा नोपकुर्याद्यदापदि ।
 उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ।।
 अमित्रव्यसनो वाऽरित्तिष्ठेद्योऽनवग्रहः ।
 मित्रेणैव भवेत्साध्य. छादितव्यसनेन सः ॥
 अमित्रव्यसनान्मित्रमुत्थितं सद्विरज्यति ।
 अरिव्यसनसिद्धया तच्छत्रुणैव प्रसिद्धयति ॥
 पश्यस्ति. शोधयेत्. मित्रव्यसनतो वाऽरि यद्वि.