पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
816
[७ अधि. १७ अध्या.
बाड्गुण्यम्

 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः। तेषां वा
तूर्य भाण्डफेलां गृहीत्वा निर्गच्छेत् ॥
 सूदाराळिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरि-
चारकैर्वा द्रव्यवस्त्रभाण्डफेला शयनासनसम्भोगौर्निर्ह्णीयेत। प
रिवारकात्मना वा किश्चिदरूपवेलायामादाय निर्गच्छेत् ।।
 सुरङ्गामुखेन वा निशोपहारेण तोयाशये वा वारुण योगमा
तिष्ठेत् । वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु
समवचारयेयु.

 दैवतोपहार श्राद्धप्रवहणनिमित्तमारक्षिषु मदनयोगयुक्तमन्न-
पानरसं' वा प्रयुज्यापगच्छेत् । आरक्षकप्रोत्साहनेन वा ना
गरककुलवचिकित्सकापूपिकव्यञ्जना वा रात्री समृद्धगृहा
ण्यादीपयेयुः । आरक्षिणां वैदेहकव्यञ्जना वा पण्यसंस्थामा-
दीपयेयुः । अन्यद्वा शरीरं निक्षिप्य स्वगृहमादीपयेदनुपातभ-
यात् तत सन्धिच्छेदवात'सुरङ्गाभिरपगच्छेत् ।।

 काचकुम्भमाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत । मुण्ड
जटिलानां प्रवासनान्यनुपविष्टो वा रात्रौ तद्वयञ्जनः प्रतिष्ठेत ।
विरूपव्याधिकरणारण्यचरच्छद्मनामन्यतमेन वा प्रेतव्यञ्जनो वा
गूढैर्ह्णीयेत ॥
 प्रेतं वा स्त्रीवेषणानुगच्छेत् ।।
वनचरव्यञ्जनाश्चैनमन्यतोऽपदिशेयुः ! ततोन्यतो गच्छेत् ॥