पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२-१२३ प्रक.
315
सन्धिकर्म, सन्धिमाक्षश्च

 प्राज्ञशूरयोः प्राज्ञमशूरं मतिकर्मणां योगोनुवर्तते । शूर- 3826
मप्राज्ञं विक्रमाधिकारः।
 विक्रमाधिकारेऽपि हस्तिनामिव लुब्धकः प्राज्ञश्शूरमतिसंधत्ते।
शूरकुतास्त्रयोश्शूरमकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते ।
 कृतास्त्रमशूरं लक्षलम्भाधिकारः।
 लालम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्यसंमोषैः शूरः कृतास्त्रम-
तिसंधत्ते।
 वह्नेकपुत्रयोर्बहुपुत्र एकं दत्वा शेषप्रवृत्तिस्तब्धः संधिमति-
क्रामति नेतरः।
 पुत्रसर्वस्वदाने संधिश्चेत् पुत्रफलतो विशेषः। सफलश्योश्श-
सप्रजननतो विषेशः। शक्तप्रजननयोरप्युपस्थिप्रजननतो विशेषः।
 शक्तिमत्येकपुत्रे तु लुप्तपुत्रोत्पत्तिरात्मानमादध्यात्, न चैक-
पुत्रमिति ।

 अभ्युच्चीयमानः समाधिमोक्षं कारयेत् । कुमारासन्नास्स- 383 6
त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरङ्गया रा-
त्रावुपखानयित्वा कुमारमपहरेयुः । नटनर्तकमायकवादकवा-
ग्जीवनकुशीलवप्लवकसौहिका वा पूर्वप्रणिहिताः परमुप-
तिष्टरन् । ते कुमारं परम्परयोपतिष्ठेरन् । तेषामनियतकालप्र-
वेशस्थाननिर्गमनानि स्थापयेत् । ततस्तद्वयञ्जनो वा रात्रौ
प्रतिष्ठेत ॥