पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
312
[७ अधि.१६ अध्या.
घाड्गुण्य

रोति तदेकतोभोगि ; यदामित्रमासारं चोपकरोति तदुभयतो-
भोगि । यदामित्रासारप्रतिवेशाटाविकान् सर्वत. प्रतिकरोति त.
त्सर्वतोभोगि।

 

पार्ष्णिग्राहश्चाटविकश्शत्रुर्मुख्यश्शत्रुर्धा भूमिदानसाध्यः क-
श्चिदासाधेत निर्गुणया भूम्यैनमुपग्राहयेत्; अप्रतिसम्व-
द्वया दुर्गस्थ ; निरुपजीव्ययाऽऽटविक ; प्रत्यादेयया तत्कुलीन
मशत्रोः उपाच्छिन्नया शत्रोरूपरुद्ध; नित्यामित्रया श्रेणीवलं;
बलवत्सामन्तया संहतबलं ; उभाभ्यां युद्धे प्रतिलोमं ; अलब्ध-
व्यायामयोत्साहिनं ; शून्ययारिपक्षीयं ; कर्शितयाऽपवाहितं ;
महाक्षयव्ययनिवेशया' गत्तप्रत्यागतं; अनुपाश्रयया प्रत्यपमृत
परेणानधिवास्यया स्वयमेव भर्तारमुपग्राहयेत् ।

 

तेषा महोपकारं निर्विकारं चानुवर्तयेत् । प्रतिलोममुपां-
शुना साधयेत् । उपकारिणमुपकारशक्तया तोषयेत् । म
यासतश्चार्थमाने कुर्यात् । व्यसनेषु चानुग्रहं स्वयमागतानां
यथेष्टदर्शन प्रतिविधानं च कुर्यात् । परिभवापघातकुत्साति-
वादांश्चैषु न प्रयुञ्जीत । दत्वा चाभयं पितवानुगृह्णीयात् ।
यस्याश्चापकुर्यात्तदोषमभिविख्याप्य प्रकाशमेनं घातयेत् ।
381.1 परोद्वेगकारणाद्वा दाण्डकार्मिकवच्चेष्टेत ।

 न च हतस्य भूमिद्रव्यपुत्रदारानभिमन्येत ।