पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१ प्रक]
 

३२१ प्रक. दण्डोपनायिवृत्तम्,


 अनुज्ञातस्तद्धिरण्योद्वेगकर बलवान् विजिगीषमाणो यतस्सु- 378 4
भूमिस्स्वर्तुवृत्तिश्च स्वसैन्यानां अदुर्गापसारः शत्रुरपार्ष्णिरन-
पसारश्च, ततो यायात् । विपर्यये कृतप्रतीकारो यायात् ।


 सामदानाभ्यां दुर्बलानुपनमयेत् । भेददण्डाभ्यां बलवतः ।
 नियोगविकल्पसमुच्चयैश्चौपायानामनन्तरैकान्तराः प्रकृती-
स्साधयेत् ।
 ग्रामारण्योपजीविव्रजवणिक्पथानुपालनमुझ्झितापमृतापकारि-
णां चार्पणमिति सान्त्वमाचरेत् ।

 भूमिद्रव्यकन्यादनमभयस्य चेति दानमाचरेत् ।
 सामन्ताविकतत्कुलीनावरुद्धानामन्यतमोपग्रहेण कोशदण्ड-
भूमिदाययाचनामीति भेदमाचरेत् ।
प्रकाशकूटतूष्णींयुद्धदुर्गलम्भोपायैरमित्रप्रग्रहणामति दण्डमा-
चरेत् ।।

एवमुत्साहवतो दण्डोपकारिणः स्थापयेत् ।
स्वप्रभाववतः कोशोपकारिणः प्रज्ञावतो भूम्युपकारिणः। 9797

तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारकूप्येन द्रव्यहस्तिवन
बजसमुत्थेन यानवाहनेन वा यद्वहुश उपकरोति तच्चित्र
भोगं; यद्दण्डेन कोशेन वा महदुपकरोति तन्महाभोगं ; य-
द्दण्डकोशभूमीरुपकरोति तत्सर्वभोगं; यदमित्रमेकतः प्रतिक-