पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१-२ प्रक]
269
समहीनज्यायसा गाभिनिवेश होनसन्धयश्च

क्षयं करोति कुम्भेनेवाश्मा हानेनैकान्त सिद्धि[१] मवाप्नोति ।

 ज्यायांश्चन्न सन्धिविच्छेत्, दण्डोपनतवृत्तमाबलीयसं वा योममातिष्ठत् ।

 समश्चेन्न सन्धिविच्छेत्, यावन्मात्रमपकुर्यात्तावन्मात्रमस्य प्रत्यपकुर्यात् । तेजो हि सन्धानकारणं, नातप्तं लोहं लोहेन सन्धत इति ।

 हनिश्चेत्सर्वत्रानुप्रणतास्तष्ठेत्, सन्धिमुपेयात् । आरण्योऽग्नि रिव हि दुखामर्षजं तेजो विक्रमयति मण्डलस्य चानुग्राह्यो भवति ।

 संहितश्चेत् “परप्रकृतयो लुब्धक्षीणापचारिताः प्रत्यादानभयाद्वा नोपगच्छन्ति" इति पश्येद्धीनोऽपि विगृह्णीयात् ।

 विगृहीतश्चेत् “परप्रकृतयो लुब्धक्षीणापचारिता विग्रहोद्विग्ना वा मा नोपगछन्ति " इति पश्येत्, ज्यायानपि सन्धीयेत; विग्रहोद्वेग वा शमयेत् ।

 व्यसनयौगपद्ये[२]--" गुरुव्यसनोऽस्मि, लघुव्यसनः परः, सुखेन प्रकृत्यव्यसनमात्मनोऽभियुञ्जति" इति पश्येत्, ज्याया- नपि सन्धियेत ॥

 सन्धिविग्रहयोश्चेत् परकर्शनमात्मोपचयं वा नाभिपश्येत्, ज्यायानप्यासीत ।



  1. नेकान्तसिद्धि.
  2. पद्येऽपि,