पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८ प्रक
307
हानशातपूरणम्

 प्रभवहीनः प्रकृतियोगक्षेमसिद्धौ यतेत ॥
 जनपदस्सर्वकर्मणां योनि ; ततः प्रभवः तस्य स्थान-
मात्मनश्च आपदि दुर्गम् ॥

 सेतुबन्धस्सस्यानां योनिः , निसानुषक्तो हि वर्षगुणलाभः
सेतुवापेषु ॥
 वणिक्पथः परातिसन्धानस्य योनिः । वणिक्पथेन हि
दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियेत । प्र.
वेशो निर्णयनं च ॥

 खनिस्सङ्गामोपकरणानां योनिः ॥
 द्रव्यवनं दुर्गकर्मणां ; यानरथयोश्च ।।
 हस्तिवनं हस्तिनाम् ।।
 गवाश्वरथोष्ट्राणां च व्रजः ॥
 तेषामलामे बन्धुमित्रकुलेभ्यः समार्जनं उत्साहहीनश्रेणी-
प्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातानां परापकारिणां
गूढपुरुषाणां च यथालाभमुपचयं कुर्वीत ॥

 परमित्रा(श्रा)प्रतीकारमाबलीयसं वा परेषु प्रयुञ्जीत ॥
एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
सम्पन्नः प्रतिनिगच्छेत् परावग्रहमात्मनः ।।

इति षाड्गुण्ये हीनशक्तिपूरणं चतुर्दशोऽध्यायः

आदितो द्वादशशतः