पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
306
[ अधि. १४ अध्या
षागुण्यम्

 दुष्टेषु सन्धि दूषयेत् । अथोभयवेतना भूयो भेदमेषां कुर्युः
"एवं तद्यदस्माभिर्दर्शितम्" इति ॥

 भिन्नष्वन्यतमोपग्रहेण वा चेष्टेत !

 प्रधानभावे सामवायिकानामुत्साहायितारं स्थिरकर्माणमनु-
रक्तप्रकृति लोभाद्भयाद्वा सातमुपागतं विजगीषोर्भीतं रा.
ज्यप्रतिसम्बन्ध मित्र चलामित्रं वा पूर्वीन्यतराभावे साधयेत् ।।

 उत्साहायतारमात्मनिसर्गेण स्थिरकर्माणं सान्त्वप्रणिपातेन
अनुरक्तप्रकृतिं कन्यादानयौवनाभ्यां लुब्धमंशद्वैगुण्येन भीतमेभ्यः
कोशदण्डानुग्रहेण स्वतोभीतं विश्वासयेत् (प्रतिभूप्रदानेन राज्य-
प्रतिसम्बन्धमेकीभावोपगमनेन मित्रमुभयतः प्रियहिताभ्यामुप-
कारत्यागेन वा चलामित्रमवधृतमनपकारोपकाराभ्याम्) !!

 यो वा यथायोगं भजेत, तं तथा साधयेत् ॥

 सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः ॥

 व्यसनोपघातत्वारतो वा कोशदण्डाभ्यां देशे काले कार्ये
वाऽवधृत सन्धिमुपेयात् । कृतसन्धिहीनमात्मानं प्रतिकुर्वीत ।
पक्षे हीनो बन्धु मित्रपक्षं कुर्वीत । दुर्गमविषह्यं वा दुर्ग-
मित्रप्रतिस्तब्धो हि स्वेषां परेषां च पूज्यो भवति ।।
 मन्त्रशक्तिहीनः प्राज्ञपुरुषोपचयं विद्यावृद्धसंयोगं वा कुर्वीत
तथा हि सच्छे्यः प्राप्नोति ॥