पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५ प्रक.]
301
पाणिग्राहचिन्ता

 परकर्मोदयो नेतु क्षयो वृद्धिविपर्यये ।  तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।।

 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये ।
 समायव्ययता स्थानं कर्मसु ज्ञेयमात्मन' ॥

 तस्मादल्पव्ययारम्भं दुर्गादिषु महोदयम् ।
 कर्म लब्ध्वा विशिष्ट स्यादित्युक्ताः कर्मसन्धयः ।।

 इति षाड्गुण्ये मित्रहिरण्यभूमिकर्मसन्धौ कर्मसन्धि-

द्वादशोऽध्यायः

आदितो दशशत


११७ प्रक. पार्ष्णिग्राहचिन्ता.


 संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णि
गृह्णतोर्यश्शक्तिसम्मन्नत्य पार्ष्णि गृह्णाति, सोऽतिसंधत्ते श-
क्तिसम्पन्नो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात् --न हीन-
शक्तिर्लब्धलाभ[१] इति ।

 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णि गृह्णाति, सोड.
तिसंधत्ते विपुलारम्भो ह्यमित्रमुच्छिद्य पाणिग्राहमुच्छिन्द्या-
न्नाल्पारम्भः सक्तचक्र इति ।
 आरम्भसाम्ये यः सर्वसंदोहेन प्रयातस्य पार्ष्णि गृह्णा- 369 3


  1. शक्तिरलब्धलाभ