पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७ प्रक,]
261
शमव्यायामिकम्

 अरिविजिगीष्वोर्भूम्यन्तरः[१] संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः ।

 अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानामरिविजिगीषुमध्यमानामनुग्रहे समर्थों निग्रहे चासंह- तानामुदासीनः ।

 इति प्रकृतयः।
 विजिगीषुमित्रं मित्रमित्रं वाऽस्य प्रकृतयस्तिस्रः ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डपतिभिरेकैकशः संयुक्ता म- ण्डलमष्टादशकं भवति ।

 अनेन मण्डलपृथक्तुं व्याख्यातं अरिमध्यमोदासीनानाम् । एवं चतुर्मण्डलसङ्क्षेपः; द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृ. तयः; सङ्क्षेपेण द्विसप्ततिः ।

 तासां यथास्वं सम्पदः शक्तिः सिद्धिश्च ।

 बलं शक्ति सुखं सिद्धि ।

 शक्तिस्त्रिविधा-ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलमुत्साहशक्तिः ।

 एवं सिद्धिस्त्रिविधैव मन्त्रशक्तिसाध्या मन्त्रसिद्धिः प्रभु- शक्तिसाध्या प्रभुसिद्धि. ; उत्साहशक्तिसाध्या उत्साहसिद्धि- रिति ।

 ताभिरभ्युच्छ्रितो[२] ज्यायान् भवति । अपचितो हीनः।

तुल्यशक्तिस्समः । तस्माच्छक्ति सिद्धिं च घटेतात्मन्यावेश-



  1. म्यनन्तर.
  2. रभ्युचितो.