पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६ प्रक]
297
अनवसितसन्धिः

चान्येषां चारम्भाणां प्रयोजकत्वात् । गोरक्षवती पण्य 3643
निचयर्णानुग्रहादाढयवणिग्वती भूमिगुणानामपाश्रयः श्रेयान्।।
 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति ?-पुरुषापाश्रया
श्रेयसी । पुरुषवद्धि राज्यम् । अपुरुगा गौर्वन्ध्येव किं
दुहीत ।।

 महाक्षयव्ययनिवेशात्तु भूमिमवाप्तुकामः पूर्वमेव क्रेतारं
पणेत । दुर्बलमराजवीजिनं निरुत्साहमपक्षमन्यायवृत्तिं व्यस-
निन दैवप्रमाणं यत्किंञ्चनकारिणं वा ।।

 महाक्षयव्ययानिवेशायां हि भूमौ दुर्वलोऽराजबीजी निविष्टस्स-
गन्धाभिः[१] प्रकृतिभिस्सह क्षयव्ययेनावसीदति । बलवानराजबी-
जी क्षयभयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।
 निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेना-
वभज्यते ।  कोशवानप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित्प्राप्नोति।
 अन्यायत्ति निविष्टमप्युत्थापयेत् स कथमनिविष्टं निवेशयेत् ।
तेन व्यसनी व्याख्यातः।
 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकमारम्भो वाऽव-
सीदति ।
 यत्किञ्चनकारी न किञ्चिदासादयति। स चैषां पापिष्ठतमो 365 1
भवति ।


  1. सरन्ध्राभि