पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=292|center=घाडगुण्यम्|right=[७ अधि. ५ अध्या.}


 विजिगीषोरमित्रं यन्मित्रमन्तार्धतां गतम् ।
 उपकारे निविष्टं वा शक्तं वाऽनुपकारि तत् ॥
 पियं परस्य वा रक्ष्यं पूज्यं सम्बन्धमेव वा ।
 अनुगृह्णाति यन्मित्रं शत्रुसाधारणं हि तत् ॥
 प्रकृष्टभौमं संतुष्टं बलवच्चालसं च यत् ।
 उदासीनं भवत्येतद्वयसनादवमानितम् ॥
 अरेर्नेतुश्च यदृद्धिं दौर्बल्यादनुवर्तते ।
 उभयस्याप्यविद्विष्टं विद्यादुभयभावि तत् ॥
 कारणाकरणध्वस्त कारणाकरणागतम् ।
 यो मित्रं समुपेक्षेत स मृत्युमुपगृहति ।।

 क्षिप्रमल्पो लामाश्चिरान्महानिति वा--"क्षिप्रमल्पो लाभः
कार्यदेशकालसम्पादकः श्रेयान्" इत्याचार्याः ।

 नेति कौटिल्य:-चिरादविनिपाती बीजसधर्भा महान् लाभः
श्रेयान्विपर्यये पूर्वः।

 एव दृष्ट्वा ध्रुवे लाभे लाभांशे च गुणोदयम् ।
 स्वार्थसिद्धिपरो यायात्संहितस्सामवायिकैः ॥

359 11

इति षाड्गुण्ये मित्राहरण्यभूमिकर्मसन्धौ मित्रसन्धिः

हिरण्यसन्धि नवमोध्याय,,

आदितः सप्तशत