पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९० प्रक.]
245
कौशाभिसहरणम्

 एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ ॥

 वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रवहणनिमित्तं या- चितकमवक्रीतक वा रूप्यसुवर्णभाण्डमनेकं गृह्णीयात् । समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णभृणं गृह्णीयात् । प्रतिभाण्डमूल्यं च । तदुभयं रात्री मोषयेत् !

 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासामेव वे श्मस्वभिगृह्य सर्वस्वान्याहरेयुः ॥

 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः । तेन दोषेणेतरे पर्यादातव्या ।।

 दूष्यमभित्यक्तोप[१] श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपमृणाप्र योगं दायं वा याचेत । दासशब्देन वा दूष्यमालम्बेत । भार्यामस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा । तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् -" हतोऽयमित्थं कामुकः” इति । तेन दोषे-णेतरे पर्यादातव्या.॥

 सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् “अक्षयं हिरण्यं राजद्रारिक स्त्रीहृदयमारव्याधिकरमा- युष्यं पुत्रीय वा कर्म जानामि " इति । प्रतिपन्नं चैत्यस्थाने

रात्रौ प्रभूतसुरामांसगन्धमुपहारं कारयेत् । एकरूयं चात्र



  1. बा