पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
58
२ अधि. ५ अध्या.
अध्यक्षप्रचार


534  चतुरश्रां वापीमनुदकोपस्नेहां खानयित्वा पृथुशिलाभिरुभ- यतः पार्श्वमूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितल- मनेकविधानं कुट्टिप्रदेशस्थानतलमेकद्वारं यन्त्रयुक्तसोपानं देव- ताविधानं भूमिगृहं कारयेत् ॥
 तस्योपर्युभयतोनिषेधं सवप्रग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत् प्रासादं वा ॥
 जनपदान्ते ध्रुवनिधिमापदर्थमभित्यक्तैः । पुरुषै कारयेत् ॥
 पकेष्टकास्तम्भं चतुश्शालमेकद्वारमनेकस्थानतल, विवृतस्त- म्भापसारमुभयतः पण्यगृहं, कोष्ठागार च, दीर्घवहुलशालं कक्ष्यातकुड्यमन्तःकुप्यगृहं, तदेव भूमिगृहयुक्तमायुधागारं, पृथग्धर्मस्थीयं महामात्रीय, विभक्तस्त्रीपुरुषस्थानमपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत् ॥
644  सर्वेषां शालाखातोदपानवच्च स्नानगृहाग्निविपत्राणमार्जार-

नकुलारक्षास्वा दैवपूजनवृत्ताः' कारयेत् ॥
 कोष्ठागारे वर्षमानमरत्निमुखं कुण्डं स्थापयेत् ।

 तज्जातकरणाधिष्टितः पुराणं नवं च रत्नं सारं फल्गुकुप्यं वा प्रतिगृह्णीयात् ।
 तत्र रत्नोपधावुत्तमो दण्ड कर्तुः कारयितुश्च । सारोपधौ मध्यमः । फल्गुकुप्योपधौ तच्च तावच्च दण्डः।
 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात् । अशुद्धं छेदयेत् । आहर्तुः पूर्वः साहसदण्डः ।

१भियुक्तं। २ स्था । ३ नयुक्ताः


1 भियुक्त . 2 स्था. 3 नयक्ताः.