पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
48
२ अधि. १ अध्या.
अध्यक्षप्रचार


 बालद्रव्यं ग्रामवृद्धा वर्ज[र्ध]येयुरा व्यवहारप्रापणात ; देवद्र- व्यं च।
 अपत्यदारं मातापितरौ भ्रातॄनप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाविभ्रतः शक्तिमतो द्वादशपणो दण्डोऽन्यत्र पतितेभ्यः अन्यत्र मातुः।
 पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वस्साहसदण्डः, स्त्रियं च प्रव्राजयतः।
539  लुप्तव्यवायः प्रव्रजेदावृश्चय धर्मस्वान् । अन्यथा नियम्येत
541  वानप्रस्थादन्यः प्रव्राजितभावः सजातादन्यः सङ्घस्सामुत्था- यका दन्यस्समयानुबन्धो वा नास्य जनपदमुपनिवेशेत । न च तत्राराम विहारार्थाः शालास्स्युः ।
 नटनर्तनगायनवादकवाग्जीवनकुशीलवा वा न कर्मविघ्नं कुर्युः; निराश्रयत्वात् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां, कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवतीति ।

542 परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।
 देशं परिहरेद्राजा व्ययक्रीडाश्च वारयेत् ।।
 दण्डविष्टिकराबाधैः रक्षेदुपहतां कृपिम् ।
 स्तेनव्याळाविषग्राहैः व्याधिभिश्च पशुव्रजान ॥
 वल्लभैः कार्मिकैस्स्तस्तेनैरन्तपालैश्च पीडितम् ।


1 दारान्. 2 दापृच्छ्य धर्मस्थान्. 3 यिका, 4 गमा.