पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१६ प्रक.]
299
मित्रसन्धिाहरण्यसन्धिश्च

११६ प्रक. मित्रसन्धिः, हिरण्यसन्धिश्च.

 संहितप्रयाणे मित्रहिरण्यभूमिलाभानायुत्तरोत्तरो लाभः श्रे- 361 1
यान् । मित्रहिरण्ये हि मूमिलामाद्भवतः मित्रीहरण्यलामात
यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ॥

 "त्वं चाहं च मित्रं लभावहे" इत्येवमादिः समसन्धिः ।
'त्वं मित्रं' इत्येवमादिविषमसन्धिः तयोर्विशेषलाभादतिसन्धिः।

 समसन्धौ तु यस्सम्पन्न मित्रं मित्रकृच्छ्रे वा मित्रमवाप्नोति
सोऽतिसंधत्ते आपद्धि सौहृदस्थैर्यमुत्पादयति ।
 मित्रकृच्छ्रेऽपि नित्यमवश्यमनित्यं वश्यं वेति? "नित्यमवश्यं
श्रेयः , तद्धयनुपकुर्वदपि नापकरोति " इत्याचार्याः ।
 नेति कौटिल्यः-वश्यमनित्यं श्रेयः यावदुपकरोति ता-
वन्मित्रं भवत्युपकारलक्षणं मित्रमिति ।
 वश्ययोरपि महाभोगमनित्यमल्पभोगं वा नित्यमिति ?
"महाभोगमनित्यं श्रेयः; महाभोगमनियमल्पकालेन महदुपकु-
र्वत् महान्ति व्ययस्थानानि प्रतिकरोति" इत्याचार्या ।
 नेति कौटिल्यः --नित्यमल्पभेागं श्रेयः; महाभोगमनि 3571
त्यमुपकारभयादपक्रामति, उपकृत्य वा प्रत्यादातुपीहते ।
नित्यमल्पभोग सातत्यादल्पमुपकुर्वत् महता कालेन महदुप-
करोति।