पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
288
[७ आधि. ८ अध्या.
पागुण्यम्

354 4  कारानितरः मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोऽतिसं.
धत्ते । कृतप्रयासं हि मध्यमामित्रमपसृतमेकार्थोपगतं प्राप्नोति
तेनोदासीनानुग्रहो व्याख्यातः ।।

 मध्यमोदासीनयोर्बलांशदाने यश्शूरं कृतास्त्रं दुःखसहमनुरक्तं
वा दण्डं ददाति, सोऽतिसन्धीयते । विपरीतोऽतिसन्धत्ते ।

 यत्र तु दण्ड. प्रतिइतस्तं वा चार्थमन्यांश्च साधयति, तत्र
मौलभृतश्रेणीमित्राटवीबलानामन्यतममलब्ध देशकालं दण्डं
दद्यात्। अमित्राटवीबलं वा व्यवहितदेशकालम्। यं तु मन्येत--
"कृतार्थों मे दण्डं गृह्णीयात् अमित्राटव्यभूभ्यनृतुषु वा वास
येदफलं वा कुर्यादिति," दण्डव्यासङ्गापदेशेननमनुगृह्णीयात्
एवमवश्यं त्वनुगृहीतव्ये तत्कालसहमस्मै दण्डं दद्यात् । आ
समाप्तेश्चैनं वासयेद्योधयेच्च बलव्यसनेभ्यश्च रक्षेत् । कृतार्था-
च्च सापदेशमपस्त्रापयेत् । दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात् ।
यातव्येन वा सन्धायैनमतिसंदध्यात् ॥

समे हि लाभे सन्धिस्साद्विषमे विक्रमो मतः ।
समहीनविशिष्टानामित्युक्तस्सन्धिविक्रमः ॥

इति षाड्गुण्ये यातव्यवृत्तिरनुग्राह्यमित्रविशेषा

अष्टमोऽध्यायः

आदित षट्छतः