पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ प्रक.]
45
जनपदनिवेश


 आप्तशस्त्रग्राहाधिष्ठितस्सिद्धतापसं पश्येत् ।502
 मन्त्रिपरिषदा सामन्तदूतं । सन्नद्धोऽश्वं हस्तिनं रथं वाऽऽ-.
रूढस्सन्नद्धमनीकं गच्छेत् ।
निर्याणेऽभियाने च राजमार्गमुभयत कृतारक्षं दण्डिभिरपा-
स्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत् । न पुरुषसम्बाधमवगाहेत ।
यात्रासमाजोत्सवप्रवहणानि च दशवर्गिकाधिष्ठितानि गच्छेत्

 यथा च योगपुरुषैरन्यात्राजाधितिष्ठति । 506
 तथाऽयमन्यबाधेभ्यो रक्षेदात्मानमात्मवान् ॥

 इति विनयाधिकारिके आत्मरक्षितकम् एकविंशोऽध्याय
  एतावता कौटिलीयस्यार्थशास्रस्थ विनयाधिकारिक
   प्रथममधिकरणं समाप्तम्.


अध्यक्षप्रचारः-द्वितीयाधिकरणम्.

१९. प्रक. जनपदनिवेशः.


 भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहनेन स्वदेशाभिष्य. 511
न्दवमनेन वा निवेशयेत् ।
 शूद्रकर्षकप्रायं कुलशतावरं पञ्चशतकुलपरं ग्रामं क्रोशद्वि-
क्रोशसीमानमन्योन्यारक्षं निवेशयेत् ।