पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४-५ प्रक]
287
यातव्यवृत्तिरनुप्रागमित्रविशेषाश्च


माणः पूर्वोपकारकं कारयितुकामो भूयस्तदात्वे महान्तं ला. 353 3
भमुत्सृज्यायत्यामल्पमिच्छेत् ॥

 दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातु-
कामस्तथाविधमुपकारं कारयितुकामः सम्बन्धविक्षी[१]' वा तदात्वे
च आयत्यां च लाभं न प्रतिगृह्णीयात् ॥

 कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धि-
विश्लेषणं वा कर्तुकामः पराभियोगाच्छङ्कमानो लाभमप्राप्तम-
धिकं वा याचेत । तमितरस्तदात्वे च आयत्यां च क्रममपे.
क्षेत । तेन पूर्वे व्याख्याताः ।

 अरिविजिगीष्वोस्तु स्वंस्वं मित्रमनुगृह्णतोः शक्यकल्यभ
व्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः। शक्यारम्भी विष-
ह्यं कर्मारभेत ; कल्यारम्भी निर्दोष ; भव्यारम्भी कल्याणोदयं
स्थिरकर्र्मा नासमाप्य कर्मोपरमते । अनुरक्तप्रकृतिः ससहाय-
त्वादल्पेनाप्यनुग्रहेण कार्यं साधयति । त एते कृतार्थाः सुखेन
प्रभूतं चोपकुर्वन्ति । अतः प्रतिलोमे नानुग्राह्यः[२]

 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽ-
 तिसन्धत्ते। मित्रादात्मवृद्धिं हि प्रामोति। क्षयव्ययप्रवासपरो-
पकारान् इतरः ; कृतार्थश्च शत्रुर्वैगुण्यमेति ॥

मध्यमं चानु[३]गृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोs 354 4
तिसन्धत्ते । मित्रादात्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोप-

  1. पेक्षी
  2. प्रतिलोमेनानुप्रायाः
  3. त्वनु